मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् १

संहिता

नि काव्या॑ वे॒धस॒ः शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥

पदपाठः

नि । काव्या॑ । वे॒धसः॑ । शश्व॑तः । कः॒ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।
अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता॑नि । विश्वा॑ ॥

सायणभाष्यम्

नि काव्येति दशर्चमष्टमं सूक्तं त्रैष्टुभमाग्नेयं पराशरस्यार्षं अनुक्रांतं च । नि काव्येति ॥ प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

शश्वतः शाश्वतस्य नित्यस्य वेधसो विधातुर्ब्रह्मणः संबंधीनि काव्या काव्यानि मंत्ररूपाणि स्तोत्राण्ययमग्निर्नि कः । नियमेन स्वात्माभिमुखं करोति किं कुर्वन् । नर्या नृभ्यो हितानि नृषु साधूनि वा पुरूणि बहूनि धनानि हस्ते दधानो हस्ते धारयन् । ईदृग्भूतमग्निमवलोक्य सर्वे जनाः स्तुवंतीति भावः । स्तोतृभ्यो धनेष्वप्यग्नेर्धनं न क्षीयत इत्याह । अग्निरिति । अयमग्नी रयीणां रयिपतिर्भुवत् । धनानां मध्ये यानि धनान्युत्कृष्टानि तेषां स्वामी भवति । किं कुर्वन् । विश्वा विश्वानि सर्वाण्यमृतानि । हिरण्यनामैतत् । अमृतं हिरण्यम् । अथ ५-२८-११ । इति श्रुतेः । सर्वाणि हिरण्यानि स्तोतृभ्यः सत्रा सहैव चक्राणः कुर्वन् । युगपत्प्रयच्छन्नित्यर्थः ॥ कः । करोतेश्छांदसो लुङ् । मंत्रे घसेति च्लेर्लुक् । हल्ङ्याभ्य इति तकारलोपः । नर्या । नरशब्दाद्धितार्थे गवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः (पा ५-१-२) यद्वा । तत्र साधुरिति यत् । चक्राणः । करोतेर्लटः शानच् । बहुलं छंदसीति विकरणस्य श्लुः । नन्वेवं सत्यभ्यस्तानामादिरित्याद्युदात्तत्वं प्राप्नोति । एवम् । तर्हि लिटः कानजस्तु । तस्यार्धधातुकत्वेनाभ्यास्ताद्युदात्तत्वाभावे चित्स्वर एव शिष्यते ॥ १ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७