मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ५

संहिता

सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।
रि॒रि॒क्वांस॑स्त॒न्व॑ः कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥

पदपाठः

स॒म्ऽजा॒ना॒नाः । उप॑ । सी॒द॒न् । अ॒भि॒ऽज्ञु । पत्नी॑ऽवन्तः । न॒म॒स्य॑म् । न॒म॒स्य॒न्निति॑ नमस्यन् ।
रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । स्वाः । सखा॑ । सख्युः॑ । नि॒ऽमिषि॑ । रक्ष॑माणाः ॥

सायणभाष्यम्

घर्माभिष्टवे संजानाना इत्येषा । अथोत्तरमिति खंडे सूत्रितम् । संजानाना उप सीदन्नभिज्ञ्वादशभिर्विवस्वतः (आ ४-७) इति ॥

हे अग्ने त्वां संजानानाः सम्यग्जानंतो देवा उप सीदन् । उपसीदंतिप्राप्नुवंति । उपसत्तिं कृत्वा च पत्नीवंतः सपत्नीकाः संतो नमस्यं नमस्कारार्हमभिज्ञु अभिमुख्येनावस्थितजानुयुक्तं त्वां नमस्यन् । अपूजयन् । पूजयित्वा च सख्युर्मित्रस्य तव निमिषि दर्शने निमित्तभूते सति रक्षमाणास्त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्वास्तन्वः स्वकीयानि शरीराणि रिरिक्वांसोऽनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वंतः शोषयंतः कृण्वत । यागानकुर्वन् । देवा वै यज्ञमतन्वत । ऐ ब्रा २-११ । इति श्रुतेः ॥ नमस्यन् । नमोवरिवश्चित्रङ इति पूजार्थे क्यच् । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । रिरिक्वांसः । रिचिर् विरेचने । लिटः क्वसुः । निमिषि । मिष स्वर्धायाम् । अत्रोपसर्गवशाद्दर्शनार्थः । संपदादिलक्षणो भावे क्विप् । रक्षमाणाः । कर्मणि लटः शानच् । यकि प्राप्ते व्यत्ययेन शप् ॥ ५ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७