मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ६

संहिता

त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषा॑ः प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥

पदपाठः

त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ता । य॒ज्ञिया॑सः ।
तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥

सायणभाष्यम्

त्रिः सप्त एकविंशतिसंख्याकानि गुह्यानि रहस्यानि वेदैकसमधिगम्यानि यद्यानि पदा पदानि । पद्यते गम्यते स्वर्ग एभिरिति व्युत्पत्त्या पदशब्देनात्र यज्ञा उच्यंते । ते चैकविंशतिसंख्याकाः । औपासनहोमवैश्वदेवादयः सप्त पाकयज्ञाः । अग्न्याधेयदर्शपूर्णमासादयः सप्त हविर्यज्ञाः । अग्निष्टोमात्यग्निष्टोमादयः सप्त सोमयज्ञाः । एवमेकविंशतिसंख्याकानि यज्ञलक्षणानि पदानि हे अग्ने त्वे इत् त्वय्येव निहिता स्थापितानि । तेषां सर्वेषां त्वत्प्रधानत्वात् । न ह्यग्निमंतरेण यागा अनुष्ठातुं शक्यंते । यज्ञियासो यज्ञार्हा अर्थित्वसामर्थ्यवैदुष्यादिभिरधिकारहेतुभिर्युक्ताः । तथा चोक्तम् । अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिकारीति । एवंविधलक्षणोपेता यजमानास्तानि पदान्यविदन् । अलभंत । लब्ध्वा च तेभिर्यज्ञलक्षणैः पदैरमृतममरणधर्माणं त्वां रक्षंते । पालयंति । यजंतीत्यर्थः । सजोषास्तैर्यजमानैः समानप्रीतिस्त्वं पशून् गवाश्वादिपशूंश्चस्थातृन् व्रीह्यादिस्थावराणि चरथं पशुव्यतिरिक्तमन्यद्यत्प्राणिजातमस्ति तच्छ पाहि । रक्ष । तेषु हि रक्षितेषु त्वदीया यागाः कर्तुं शक्यंते नान्यथा । अतस्त्वमेवमुच्यस इत्यर्थः ॥ यत् । सुपां सुलुगिति विभक्तेर्लुक् । गुह्यानि । गुहायां भवानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । त्वे सुपां सुलुगिति सप्तम्याः शे आदेशः । अविदन् । विद्लृ लाभे । लुङि लृदित्त्वादङ् । पशून् स्थातृन् । उभयत्रोभयथर्क्षु (पा ८-३-८) इत्युभयथाभावान्नकारस्य रुत्वाभावः ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८