मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ८

संहिता

स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥

पदपाठः

स्वु॒ऽआध्यः॑ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः॑ । वि । ऋ॒त॒ऽज्ञाः । अ॒जा॒न॒न् ।
वि॒दत् । गव्य॑म् । स॒रमा॑ । दृ॒ळ्हम् । ऊ॒र्वम् । येन॑ । नु । क॒म् । मानु॑षी । भोज॑ते । विट् ॥

सायणभाष्यम्

स्वाध्यः शोभनकर्मयुक्ता यह्वीर्यह्वो महत्यः सप्त गंगाद्याः सप्त नद्यो दिवो द्युलोकादागत्य भूम्यां प्रवहंतीति शेषः । हे अग्ने ईदृग्विधा नद्यस्त्वया स्थापिताः । अग्नौ होमे सति हि तेन तृप्तः सूर्यो वृष्टिं करोति । तस्मिन्नर्थे स्मृतिः पूर्वमुदाहृता । अतो वृष्टिद्वाराग्निरेव नदीः करोतीत्युच्यते । तथा ऋतज्ञा ऋतं यज्ञं जानंतोऽंगिरसो रायो वलनाम्नासुरेणापहृतस्यगोरूपस्य धनस्य दुरो द्वाराणि गमनमार्गानजानन् । त्वया ज्ञानवंतः । त्वत्साध्येन यागेन प्रीत इंद्रो गवामन्वेषणाय सरमां नाम देवशुनीं प्रेषितवान् । सा च सरमा गवां स्थानमवगत्येंद्रस्य न्यवेदयत् । इंद्रश्च तानंगिरसो गाः प्रापयत् । अत एतत्सर्वं त्वमेव कृतवान् । अंगिरोभ्यः सकाशाद्गव्यं गवि भवं दृळ्हं स्थूलं बहुलमित्यर्थः । एवंविधं पयोलक्षणमूर्वमन्नं सरमा देवशुनी विदत् । अलभत । कमित्येतत्पादपूरणम् । येन नु येन हि गव्येन मानुषी विट् मनोः संबंधिनी प्रजा भोजते इदानीं भुंक्ते । तद्गव्यमपि परंपरयाग्निरेव करोति ॥ स्वाद्यः । सुअङ् पूर्वाद्धीशब्दाज्जस्येरनेकाच इति यणादेशः । यह्वीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । गव्यम् । सर्वत्र गोरजादिप्रत्ययप्रसंगे यद्वक्तव्यमिति भावार्थे यत् । ऊर्वम् । उर्वी हिंसार्थः । ऊर्वति क्षुधं हिनस्तीत्यूर्वमन्नम् । पचाद्यच् । भोजते । भुज पालनाभ्यवहारयोः । श्नमि प्राप्ते व्यत्ययेन शप् ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८