मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् १०

संहिता

अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥

पदपाठः

अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् ।
अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥

सायणभाष्यम्

अस्मिन्नग्नौ चारु शोभनां श्रियं परिस्तरणपरिषेचनादिरूपां यज्ञ संपदमधि नि दधुः । यजमाना स्थापितवंतः । निधाय च यद्यदाक्षी यज्ञस्याज्यभागलक्षणे चक्षुषी अकृण्वन् कुर्वंति । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ । तै सं २-६-२-१ । इति श्रुतेः । तदानीं दिवो द्युलोकादमृता अमरणधर्माणो देवा यागसमयो जात इत्यवगम्यागच्छंतीति शेषः । अधाज्यभागानंतरं सृष्टा अग्नेरुत्पन्नाः सिंधवो न शीघ्रं गच्छंत्यो नद्य इव नीचीर्नितरां सर्वासु दिक्षु गच्छंतीररुषीरारोचमानाः । यद्वा । निर्मलरूपाः । हे अग्ने एवंभूतास्त्वदीया ज्वालाः क्षरंति । संचलंति । सर्वासु दिक्षूद्गच्छंतीत्यर्थः । आगता देवाश्च प्राजानन् । अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः संतः प्रकर्षेण जानंति ॥ अक्षी । परत्वान्नुमं बाधित्वा ई च द्विवचने (पा ७-१-७७) इत्यक्षिशब्दस्येकारांतादेशः । स चोदात्तः । ईत्वे कृते सकृद्गतपरिभाषया । परि ४० । पुनर्नुम्नभवति । सवर्णदीर्घः । नीचीः । निपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । न्यधी च (पा ६-२-५३) इति गतेः प्रकृतिस्वरत्वम् । अरुषी । अरुषमिति रूपनाम । ऋहनिभ्यामुषजित्यर्तेरुषच् । छंदसीवनिपाविति मत्वर्थीय ईकारः ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८