मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् २

संहिता

दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ ।
पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥

पदपाठः

दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा । क्रत्वा॑ । नि॒ऽपाति॑ । वृ॒जना॑नि । विश्वा॑ ।
पु॒रु॒ऽप्र॒श॒स्तः । अ॒मतिः॑ । न । स॒त्यः । आ॒त्माऽइ॑व । शेवः॑ । दि॒धि॒षाय्यः॑ । भू॒त् ॥

सायणभाष्यम्

देवो न सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव योऽग्निः सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोऽग्निः क्रत्वात्मीयेन कर्मणा विश्वा वृजनानि । विभक्ति । व्यत्ययः । सर्वेभ्यः संग्रामेभ्यो निपाति नितरां पालयति । वर्ज्यंते हिंस्यंतेऽस्मिन्निति वृजनम् । संग्रामः । अपि च पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुतोऽग्निरमतिर्न । रूपनामैतत् । रूपमिव सत्यो बाधरहितः । रूप्यत इति रूपं स्वरूपम् । यथा पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु कर्मसु स्वयमेक एव व्याप्य वर्तते । सोऽग्निः शेवः सुखकरः । तत्र दृष्टांतः । आत्मेव ॥ परमप्रेमास्पदतया निरतिशयानंदस्वरूप आत्मा यथा सर्वान्सुखयति । एतस्यैवानंदस्यान्यानि भूतानि मात्रामुपजीवंति । एष ह्येवानंदं यातीति च श्रवणात् तद्वदग्निरपि स्वर्गादिफलहेतुतया सुखयति । एवं भूतोऽग्निर्दिधिषाय्यो भूत् । सर्वैर्यजमानैर्धारणीयो भवति । परित्यागे हि वीरहत्यालक्षणो दोषो भवति । तथा च तैत्तिरीयकम् । वीरहा वा एष देवानां योऽग्निमुद्वासयते । तै सं १-५-२-१ । इति ॥ सत्यमन्मा । मननं मन्म । मन ज्ञाने । अन्येभ्योऽपि दृश्यंत इति मनिन् । सत्यमवितथं मन्म यस्य । बहुव्रीहिस्वरः । वृजनानि । वृजी वर्जने । कृपृ वृजीत्यादिना क्युप्रत्ययः । पुरुप्रशस्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते प्रवृद्धादीनां च (पा ६-२-१४७) इत्युत्तर पदांतोदात्तत्वम् । स ह्याकृतिगण इत्युक्तम् । अमतः । अम गत्यादिषु । आमेरतिः । दिधिषाय्यः । दधातेर्दिधिषाय्यः (उ ३-९७) इति साय्यप्रत्ययांतो निपात्यते ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९