मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ४

संहिता

तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ ।
अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥

पदपाठः

तम् । त्वा॒ । नरः॑ । दमे॑ । आ । नित्य॑म् । इ॒द्धम् । अ॒ग्ने॒ । सच॑न्त । क्षि॒तिषु॑ । ध्रु॒वासु॑ ।
अधि॑ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि॑ । अ॒स्मि॒न् । भव॑ । वि॒श्वऽआ॑युः । ध॒रुणः॑ । र॒यी॒णाम् ॥

सायणभाष्यम्

हे अग्ने तं त्वा पूर्वोक्तगुणविशिष्टं त्वां नरो यज्ञस्य नेतारो यजमाना ध्रुवासु क्षितिषु निश्चलासु चलनरहितासु भूमिषु । निरुपद्रवेषु ग्रामेष्वित्यर्थः । दमे स्वकीये यज्ञगृहे नित्यमिद्धमनवरतं समिद्भिः प्रज्वलितं कृत्वा आ सचंत । आभिमुख्येन सेवंते । किंचास्मिन्नग्नौ द्युम्नं हविर्लक्षणमन्नं भूरि चरुपुरोडाशादिरूपेण बहुविधमधि नि दधुः । स्थापितवंतः । एवंगुणविशिष्टो योऽग्निः स त्वं विश्वायुरुक्तप्रकारेण सर्वान्नो भूत्वा रयीणां धनानां धरुणो धारयिता भव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ सचंत । षच समवाये । छांदसो वर्तमाने लङ् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । भव । द्वचोऽतस्तिङ इति संहितायां दीर्घः । धरुणः धारेर्णिलुक्चेत्युनप्रत्ययः ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९