मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ५

संहिता

वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायु॑ः ।
स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥

पदपाठः

वि । पृक्षः॑ । अ॒ग्ने॒ । म॒घऽवा॑नः । अश्युः॑ । वि । सू॒रयः॑ । दद॑तः । विश्व॑म् । आयुः॑ ।
स॒नेम॑ । वाज॑म् । स॒म्ऽइ॒थेषु॑ । अ॒र्यः । भा॒गम् । दे॒वेषु॑ । श्रव॑से । दधा॑नाः ॥

सायणभाष्यम्

हे अग्ने मघवानो हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षोऽन्नानि व्यश्युः । व्याप्नुवंतु । त्वयानुगृहीताः सर्वाण्यन्नानि लभंताम् । ये च सूरये विद्वांसस्त्वां स्तुवंति । ददतो ये च तुभ्यं हवींषि ददशः । प्रयच्छंतो वर्तंते ते सर्वे विश्वमायुः सर्वं जीवितं व्यश्युः । व्याप्नुवंतु । वयं च समिथेषु संग्रामेष्टर्योऽरेः शत्रोः संबंधिनं वाजमन्नं सनेम । त्वदनुग्रहात्संभजेमहि । तदनंतरं देवेषु त्वत्प्रमुखेष्टिंद्रादिषु श्रवसे यशसे तदर्थं भागं हविर्भागं दधानाः स्थापयंतो भूयास्मेति शेषः ॥ अत्युः अकू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । दशतः । नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सनेम । वन षण संभक्तौ । व्यत्ययेन शः । अर्यः । अरिशब्दात्षष्ठ्येकवचने जसादिषु च्छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । अरिशब्द अच इरितीप्रत्ययांतोऽंतोदात्तः । उदात्तयण इति विभक्तेरुदात्तत्वम् । भागम् । कर्षात्वत इत्यंतोदात्तत्वं ॥ ५ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९