मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ६

संहिता

ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः ।
प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥

पदपाठः

ऋ॒तस्य॑ । हि । धे॒नवः॑ । वा॒व॒शा॒नाः । स्मत्ऽऊ॑ध्नीः । पी॒पय॑न्त । द्युऽभ॑क्ताः ।
प॒रा॒ऽवतः॑ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । वि । सिन्ध॑वः । स॒मया॑ । स॒स्रुः॒ । अद्रि॑म् ॥

सायणभाष्यम्

ऋतस्य हि ऋतं देवयजनदेशं प्राप्तमग्निमेव धेनवोऽग्निहोत्रादिहविषां दोग्ध्र्यो गावः पीपयंत । क्षीरादिलक्षणं गव्यमपापयन् । कीदृश्योगावः । वावशाना अग्निं पुनःपुनः कामयमानाः स्मदूध्शीः । स्मच्छब्दो नित्यशब्दसमानार्थः । नित्यमूधसा युक्ताः । सर्वदा पयसः प्रदात्र्य इत्यर्थः । द्युभक्ता दिवा प्रकाशेन संभक्ताः संश्लिष्टाः । तेजस्विन्य इत्यर्थः । अपि च सिंधवः स्यंदनशीला नद्यः सुमतिमस्याग्नेः शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणा याचमानाः सत्योऽद्रिं समयाद्रे पर्वतस्य समीपे परावतो दूरदेशाद्वि सस्रुः । विशेषेण गच्छंति प्रवहंति । अग्नये दातव्यानां हविषां निष्पत्तये प्रवहंतीत्यर्थः ॥ ऋतस्य । क्रियाग्रहणं कर्वव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वावशानाः । वश कांतौ । यङंताच्छानच् । न वशः (पा ६-१-२०) इति संप्रसारणप्रतिषेधः । बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच आर्धधातुकत्वादतोलोपयलोपौ । अत एव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एव शिष्यते । स्मदूध्नीः । स्मत् नित्यान्यूधांसि यासाम् । ऊधसोऽनङ् (पा ५-४-१३१) इत्यनङादेशः । समासांतः । संख्याव्ययादेर्ङीप् (पा ४-१-२६) इति ङीप् । भसंज्ञायामल्लोपोऽन इत्यलोपः । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिस्वरः एव शिष्यते । पीपयंत । पा पाने । अस्माद्धेतुमति णिच् । शाछासाह्वेति युक् । ण्यंताल्लुङी च्लेश्चङादेशादि । चङ्यन्यतरस्यामिति चङः पूर्वस्योदात्तत्वम् । हि चेति निघातप्रतिषेधः । परावतः । परागतात् । दूरं हि परागतं भवति । अस्मिन्धात्वर्थे गम्यमान उपसर्गाच्छंदसि धात्वर्ते (पा ५-१-११८) इति वतिः ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०