मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ७

संहिता

त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धु॑ः ॥

पदपाठः

त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रवः॑ । द॒धि॒रे॒ । य॒ज्ञियाः॑ ।
नक्ता॑ । च॒ । च॒क्रुः । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । कृ॒ष्णम् । च॒ । वर्ण॑म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति॑ धुः ॥

सायणभाष्यम्

हे अग्ने सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणा याचमाना यज्ञियासो यज्ञार्हाः सर्वे देवा दिवि द्योतमाने त्वे त्वयि श्रवो हविर्लक्षणमन्नं दधिरे । अस्थापयन् । अग्निर्देवानामन्नाद इति श्रुतेः । तदनंतरं तादृशे हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उषसोषःकालोपलक्षितमहर्नक्ता च नक्तं रात्रिं च चक्रुः । अकुर्वन् । एतदेव स्पष्टयति । कृष्णं च वर्णं रात्र्यां श्यामलवर्णमंधकारमह्न्यरुणमारोचनं श्वेतवर्णं तेजश्च सं धुः । सम्यक् स्थापितवंतः ॥ त्वे । सुपां सुलुगिति सप्तम्याः शेआदेशः । नक्ता । तेनैव द्वितियाया डादेशः । उषसा । तेनैव विभक्तेराकारः । धुः । डुधाञ् धारणपोषणयोः । लुङि गातिस्थेति सिचो लुक् । आत इति झेर्जुसादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ७ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०