मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ८

संहिता

यान्रा॒ये मर्ता॒न्त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ ।
छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥

पदपाठः

यान् । रा॒ये । मर्ता॑न् । सुसू॑दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ।
छा॒याऽइ॑व । विश्व॑म् । भुव॑नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥

सायणभाष्यम्

यान्मर्तान्मनुष्यानस्मान्राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशा वयं च मघवानो धनिनः स्याम । भवेम । रोदसी द्यावापृथिव्यावंतरिक्षं चापप्रिवान् स्वतेजसा वृष्ट्युदकेन वापूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि । सेवसे । अनुगृह्य सर्वं रक्षसीत्यर्थः । तत्र दृष्टांतः । छायेव । यथा छत्त्रादेश्भायातपादिजनितं क्लेशं निवार्य रक्षति तद्वत् ॥ राये । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुषूदः । षूद प्रेरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । सिसक्षि । षच समवाये । बहुलं छंदसीति शपः श्लुः । इदित्यनुवृत्तौ बहुलं छंदसीत्यभ्यासस्येत्वम् । अपप्रिवान् । प्रा पूरणे । लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः । आतो लोप इट चेत्याकारलोपः । द्विर्वचनेऽचीति स्थानिवद्भावात् द्विर्भावादि ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०