मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् १०

संहिता

ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ ।
श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥

पदपाठः

ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । जुष्टा॑नि । स॒न्तु॒ । मन॑से । हृ॒दे । च॒ ।
श॒केम॑ । रा॒यः । सु॒ऽधुरः॑ । यम॑म् । ते॒ । अधि॑ । श्रवः॑ । दे॒वऽभ॑क्तम् । दधा॑नाः ॥

सायणभाष्यम्

हे वेधः । मेधाविनामैतत् । मेधाविन्नग्ने एतोचथान्येतानीदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ते तव मनसे मनोवृत्तये हृदे तद्वृत्तिमतेऽंतःकरणाय च जुष्टानि संतु । प्रियाणि भवंतु । ते तव संबंधिनः सुधुरः सुष्ठु निर्वाहकस्य । यद्वा । शोभनं धूर्वति दारिद्र्य हिनस्तीति सुधूः । तादृशस्य रायो धनस्य यमं नियमनं कर्तुं शकेम । शक्ता भयास्म । किं कुर्वंतः । देवभक्तं देवैः संभजनीयं श्रवो हविर्लक्षणमन्नमधि दधानाः । अग्नेरुपरि धारयंतः । अग्नौ हविर्भिर्होमं कुर्वंत इत्यर्थः ॥ उचथानि । वच परिभाषणे । रुविदिभ्यां कित् (उ ३-११६) इति विधीयमानोऽथप्रत्ययः कित्त्वं च बहुलवचनादस्मादपि भवति । वच्यादिना संप्रसारणम् । जुष्टानि । जुष्टार्पिते च छंदसि नित्यं मंत्रे पा ६-१-२०९ । २१० । इत्याद्युदात्तत्वम् । हृदे । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । शकेम । शक्लृ शक्तौ । लिङ्याशिष्यङ् । सुधुरः । धुर्वी हिंसार्थः । क्विप्चेति क्विप् । राल्लोप इति वकारलोपः । न पूजनादिति समासांतप्रतिषेधः । देवैर्भक्तं देवभक्तम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०