मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् १

संहिता

उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ ।
आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥

पदपाठः

उ॒प॒ऽप्र॒यन्तः॑ । अ॒ध्व॒रम् । मन्त्र॑म् । वो॒चे॒म॒ । अ॒ग्नये॑ ।
आ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥

सायणभाष्यम्

त्रयोदशानुवाक एकादश सूक्तानि । तत्रोपप्रयंत इति नवर्चं प्रथमम् । सूक्तम् । अत्रानुक्रम्यते । उपप्रयंतो नव गोतमो राहूगणो गायत्रं त्विति अस्यायमर्थः । रहूगणनामा कश्चिदृषिः । तस्य पुत्रो गोतमोऽस्य सूक्तस्य ऋषिः । गायत्रं त्वित्युक्तत्वादिदमुत्तरं च गायत्रीच्छंदस्कम् । परमाग्नेयमैंद्रादिति परिभाषितत्वादग्निर्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छंदस्येतदादिके द्वे सूक्ते । सूत्रितं च । आपो रेवतीः क्षयथा हि वस्व उपप्रयंत इति सूक्ते । अ ४-१३ । इति ॥ आश्विनशस्त्रेऽप्येते सूक्ते प्रातरनुवाकन्यायेन । अ ६-५ । इत्यतिदेशात् ॥ पृष्ठ्यषडहस्य प्रथमेऽहन्येतदेव सूक्तमाज्यशस्त्रम् । सूत्रितं च । उपप्रयंत इति शु प्रथमेऽहन्याज्यम् । अ ७-१० । इति ॥

अध्वरं हिंसाप्रत्यवायरहितमग्निष्टोमादियज्ञमुपप्रयंत उप्येत प्रकर्षेण यंतो गच्छंतः । प्राप्त्यविच्छेदेन सम्यगनुतिष्ठंत इत्यर्थः । तादृशावयमग्नयेऽगनादिगुणयुक्ताय देवाय मंत्रं मननसाधनमेतत्सूक्तरूपं स्तोत्रं वोचेम । वक्तारो भूयास्मेत्याशास्यते । कीदृशायाग्नये । आरेऽस्मे च शृण्वते । चशब्दोऽप्यर्थ आरेशब्दात्परो द्रष्टव्यः । आरे च दूरेऽपि स्थित्वास्माकं स्तुतीः शृण्वते । अस्मासु प्रीत्यतिशयेन सर्वत्र प्रवर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः ॥ वोचेम । ब्रुवो वचिः । लिङ्याशिष्यङ् । वच उमित्युमागमः । शृण्वते । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१