मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् २

संहिता

यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ ।
अर॑क्षद्दा॒शुषे॒ गय॑म् ॥

पदपाठः

यः । स्नीहि॑तीषु । पू॒र्व्यः । स॒म्ऽज॒ग्मा॒नासु॑ । कृ॒ष्टिषु॑ ।
अर॑क्षत् । दा॒शुषे॑ । गय॑म् ॥

सायणभाष्यम्

पूर्व्यश्चिरंतनो योऽग्निः स्नीहितीषु वधकारिणीषु कृष्टिषु शत्रुभूतासु प्रजासु संजग्मानासु संगतासु सतीषु दाशुषे हवींषि दत्तवत्ते यजमानाय गयं धनमरक्षत् । रक्षति । तस्मै मंत्रं वोचेमेति पूर्वेण संबंधः ॥ स्नीहितीषु । ष्णिह स्नेहने । चुरादिः । स्नेहयतीति वधकर्मसु पठितः । स्नेह्यंते हिंस्यंते प्रजा आभिरिति स्नेहितयः । करणे क्तिन् । तितुत्रेष्टग्रहादीनामिति वक्तव्यमिति वचनान्निगृहीतिर्निपठितिरितिवदिडागमः । म ७-२-९-१ । व्यत्ययेनैकारस्येकारादेशः । क्तिनो दीर्घश्च । नित्त्वादाद्युदात्तत्वम् । संजग्मानासु । समो गम्यृच्छीत्यात्मनेपदम् । लिटः कानच् । गमहनेत्यादिनोपधालोपः । अरक्षत् । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ्॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१