मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ३

संहिता

उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
ध॒नं॒ज॒यो रणे॑रणे ॥

पदपाठः

उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः॑ । उत् । अ॒ग्निः । वृ॒त्र॒ऽहा । अ॒ज॒नि॒ ।
ध॒न॒म्ऽज॒यः । रणे॑ऽरणे ॥

सायणभाष्यम्

अग्निमंथने जातायानुब्रूहीत्युक्त उत ब्रुवंत्वित्येषानुवचनीया । प्रातर्वैश्वदेव्यामिति खंडे सूत्रितम् । शिष्वेनोत्तरामुत ब्रुवंतु जंतवः (आ २-१६) इति ॥ तथा साकमेधेषु मरुद्भ्यः क्रीडिभ्यः पुरोडाशमित्यस्यामिष्टावेषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च । मरुद्भ्यः क्रीडिभ्य उत्तरोत ब्रुवंत जंतवः (आ २-१८) इति ॥

अग्रिरुदजनि । अरण्योः सकाशादुत्पन्नः । उतानंतरं जंतवो जाताः सर्व ऋत्विजो ब्रुवंतु । तमग्निं स्तुवंतु । कीदृशोऽग्निः । वृत्रहा वृत्राणामावरकाणां शत्रूणां हंता रणे रणे सर्वेषु संग्रामेषु धनंजयः शत्रुधनानां जेता ॥ धनंजयः । संज्ञायां भृतृवृजीति (पा ३-२-४६) खच् । अरुर्द्विषदजंतस्य (पा ६-३-६७) इति मुम् । चित्स्वरेणांतोदात्तत्वम् । रणे रणे । रण शब्दार्थः । रणंति दुंदुभयोऽस्मिन्निति रणः संग्रामः । वशिरण्योरुपसंख्यानम् । पा ३-३-५८-३ । इत्यप् । नित्यवीप्सयोरिति द्विर्वचनम् । आम्रेडितानुदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१