मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ४

संहिता

यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।
द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥

पदपाठः

यस्य॑ । दू॒तः । असि॑ । क्षये॑ । वेषि॑ । ह॒व्यानि॑ । वी॒तये॑ ।
द॒स्मत् । कृ॒णोषि॑ । अ॒ध्व॒रम् ॥

सायणभाष्यम्

हे अग्ने यस्य यजमानस्य क्षये देवयजनलक्षणे गृहे देवानां दूतस्त्वमसि भवसि । यस्य च हव्यानि चरुपुरोडाशादीनि हवींषि वीतये देवानां भक्षणाय वेषि गमयसि । यस्य चाध्वरं यज्ञं दस्मत् । सर्वैर्दर्शनीयं कृणोषि करोषि । तमित्सुहव्यमित्युत्तरया संबंधः ॥ वेषि । वी गत्यादिषु । अंतर्भावितण्यर्थाल्लट् । अदादित्वाच्छपो लुक् । पादादित्वान्निघाताभावः । दस्मत् । दसि दंसनदर्शनयोः । इषियुधींधीत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यापत्त्यातकारः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेन वकारस्याकारः । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । यस्येत्यनुषंगान्निघाताभावः ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१