मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ५

संहिता

तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो ।
जना॑ आहुः सुब॒र्हिष॑म् ॥

पदपाठः

तम् । इत् । सु॒ऽह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒ऽदे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
जनाः॑ । आ॒हुः॒ । सु॒ऽब॒र्हिष॑म् ॥

सायणभाष्यम्

हे सहसो यहो बलस्य पुत्र आंगिरोऽंगनादिगुणयुक्ताग्ने यो यजमानः पूर्वमुक्तस्तमित् तमेव यजमानं सुहव्यं शोभनहविष्कं सुदेवं शोभनदैवतं सुबर्हिषम् । बर्हिरिति यज्ञनाम । शोभनयज्ञं च जनाः सर्वे मनुष्य आहुः । कथयंति ॥ सुहव्यमित्यादिषु नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सहसो यहो । सुबामंत्रिक इति परांगवद्भावात्षष्ठ्यामंत्रितसमुदायस्याष्टमिक्रमामंत्रितानुदात्तत्वं ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१