मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ६

संहिता

आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।
ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥

पदपाठः

आ । च॒ । वहा॑सि । तान् । इ॒ह । दे॒वान् । उप॑ । प्रऽश॑स्तये ।
ह॒व्या । सु॒ऽच॒न्द्र॒ । वी॒तये॑ ॥

सायणभाष्यम्

हे सुश्चंद्र शोभनाह्लादनाग्ने तान्देवानिहास्मिन्कर्मण्युपास्मत्समीपं प्रशस्तये स्तुतय आ वहासि च । आवह प्रापय च । अगतेभ्यस्तेभ्यो हव्या हव्यानि चरुपुरोडाशादीनि हवींषि वीतये भक्षणाय प्रापयेत्यर्थः ॥ वहासि वह प्रापणे । लेट्याडागमः । प्रशस्तये । शन्सु स्तुतौ । भावे क्तिन् । तितुत्रेतीट्प्रतिषेधः । अनिदितामिति नलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सुश्चंद्र । ह्रस्वाच्चंद्रोत्तरपदे मंत्र इति सुट् ॥ ६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२