मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ७

संहिता

न योरु॑प॒ब्दिरश्व्य॑ः शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।
यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥

पदपाठः

न । योः । उ॒प॒ब्दिः । अश्व्यः॑ । शृ॒ण्वे । रथ॑स्य । कत् । च॒न ।
यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ॥

सायणभाष्यम्

हे अग्ने यद्यदा दूत्यं देवानां दूतत्वं यासि प्राप्नोषि कश्चन कदाचन तदानीं सर्वदापि योर्गच्छतस्तव रथस्याश्वोऽश्वैरुत्पादित उपब्दिः श्रवणार्हः शब्दो नोपलभ्यत इत्यर्थः ॥ योः । या प्रापण इत्यस्मात् यो द्वे च (उ १-२२) इत्यौणादिकः कुप्रत्ययः । बहुलवचनाद्द्विर्भावाभावः उपब्दिरित्येतत् श्रोतुमर्हस्य शब्दस्याख्या । तथा च तैत्तिरीयाणां प्रातिशाख्यं सशब्दमुपब्दिमत् । तै प्रा २३-९ । इति । शृण्वे । श्रु श्रवणे । कर्मणि लट श्रुवः शृ चेति व्यत्ययेन श्नुः शृभावश्च । लोपस्त आत्मनेपदेष्विति तलोपः । हुश्नुवोः सार्वधातुक इति यणादेशः ॥ ७ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२