मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७४, ऋक् ९

संहिता

उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।
दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥

पदपाठः

उ॒त । द्यु॒ऽमत् । सु॒ऽवीर्य॑म् । बृ॒हत् । अ॒ग्ने॒ । वि॒वा॒स॒सि॒ ।
दे॒वेभ्यः॑ । दे॒व॒ । दा॒शुषे॑ ॥

सायणभाष्यम्

उतापि च हे देव द्योतामानाग्ने देवेभ्यो दाशुषे चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय बृहत्प्रौढं धनं विवाससि । गमयितुमिच्छसि । प्रापयसीति यावत् । कीदृशम् । द्युमदतिशयेन दीप्तं सुवीर्यं शोभनवीर्योपेतं ॥ सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । विवाससि । वा गतिगंधनयोः । सनि द्विर्भावे सन्यत इतीत्वम् । दाशुषे । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ ९ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२