मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७५, ऋक् १

संहिता

जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ॥

पदपाठः

जु॒षस्व॑ । स॒प्रथः॑ऽतमम् । वचः॑ । दे॒वप्स॑रःऽतमम् ।
ह॒व्या । जुह्वा॑नः । आ॒सनि॑ ॥

सायणभाष्यम्

जुषस्वेति पंचर्चं द्वितीयं सूक्तम् । अनुक्रांतं च । जुषस्व पंचेति । ऋष्याद्याः पूर्ववत् ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्त विनियोगः ॥ पशौ स्तोकानुवचन आद्या विनियुक्ता । सूत्रितं च । प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम् (आ ३-४) इति ॥

हे अग्ने सप्रथस्तममतिशयेन विस्तीर्णं वचः स्तोत्रलक्षणमस्मदीयं वचनं जुषस्व । सेवस्व । कीदृशम् । देवप्सरस्तमं देवानां प्रीणयितृतमम् । किं कुर्वन् । आसनि तवास्ये हव्या हव्यानि स्तोकलक्षणानि हवींषि जुह्वानः प्रक्षिपन् । इमानि स्तोकलक्षणानि हवींषि वृथा मा भुवन् तत्सर्वं त्वदीयेन मुखेन स्वीकुर्वित्यर्थः ॥ देवप्सरस्तमम् । स्पृप्रीतिबलयोः । देवान् स्पृणोति प्रीणयतीति देवप्सराः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारपकारयोः स्थानविपर्ययः । अतिशयेन देवप्सरा देवप्सरस्तमः । जुह्वानः । जुहोतेर्व्यत्ययेन शानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । आसनि । पद्दन्नित्यादिनास्यशब्दस्यासन्नादेशः ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३