त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
सखा॒ सखि॑भ्य॒ ईड्य॑ः ॥
त्वम् । जा॒मिः । जना॑नाम् । अग्ने॑ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।
सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥
हे अग्ने त्वमुक्तप्रकारेणाचिंत्यरूपोऽप्यनुग्रहीतृतया सर्वेषां जनानां जामिर्बंधुरसि । तथा प्रियः प्रीणयिता त्वं यजमानानां मित्रः प्रमीतस्त्रायकोऽसि । ईड्यः स्तुतिभिः स्तुत्यस्त्वं सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यंतं प्रियोऽसि ॥ जामिः । जमु अदने । जमंति सहैकस्मिन्पात्रेऽदंतीति जामयो बंधवः । जनिघसिभ्यामिण् (उ ४-१२९) इति विधीयमान इण् बहुलवचनादस्मादपि द्रष्टव्यः । ईड्यः । ईड स्तुतौ । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वं ॥ ४ ॥