मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७६, ऋक् १

संहिता

का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा ।
को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥

पदपाठः

का । ते॒ । उप॑ऽइतिः । मन॑सः । वरा॑य । भुव॑त् । अ॒ग्ने॒ । शम्ऽत॑मा । का । म॒नी॒षा ।
कः । वा॒ । य॒ज्ञैः । परि॑ । दक्ष॑म् । ते॒ । आ॒प॒ । केन॑ । वा॒ । ते॒ । मन॑सा । दा॒शे॒म॒ ॥

सायणभाष्यम्

का त इति पंचर्चं तृतीयं सूक्तम् । का त इत्यनुक्रांतम् । राहूगणो गोतम ऋषिः । त्रिष्टुप् छंदः । अग्नि र्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदमादिके द्वे सूक्ते । सूत्रतं च । उप प्र जिन्वन्नि ति त्रीणि का त उपेतिरिति सूक्ते (आ ४-१३) इति ॥ अश्विनशस्त्रेऽप्येते प्रातरनुवाकातिदेशात् ॥

हे अग्ने ते तव मनसो वराय निवारणायास्मास्ववस्थापनाय कोपेतिर्भुवत् । कीदृशमुपगमनं भवेत् । न काप्यस्ति । तवोचितमुपगमनं वयं कर्तुं न शक्नुम इति भावः । मनीषा स्तुतिः शंतमा तवातिशयेन सुखकरी का कीदृशी भवेत् । तवोचिता स्तुतिरपि नास्तीत्यर्थः । को वा यजमानो यज्ञैस्तव संबंधिभिर्यागैर्दक्षं वृद्धिं बलं वा पर्याप । पर्याप्नोत् । नकोऽपीत्यर्थः । तवोचितान्यागाननुष्ठाय तैः फलं प्राप्यत इत्येतदपि दुर्घटमेवेति भावः । उपगमनादिकं तावदास्ताम् । तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह । केनेति । हे अग्ने ते तुभ्यं केन मनसा कीदृश्या बुद्ध्यादाशेम । हवींषि प्रयच्छाम । तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यत इत्यर्थः ॥ उपेतिः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । वराय । वृञ् वरणे । अस्मादंतर्भावितण्यर्थाद्ग्रहवृदृनिश्चिगमश्च (पा ३-३-५८) इत्यप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । भुवत् । लेट्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । दक्षम् । दक्ष वृद्धौ । भावे करणे वा घञ् । ञित्त्वादनुदात्तत्वं ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४