मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७६, ऋक् २

संहिता

एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒ः सु पु॑रए॒ता भ॑वा नः ।
अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥

पदपाठः

आ । इ॒हि॒ । अ॒ग्ने॒ । इ॒ह । होता॑ । नि । सी॒द॒ । अद॑ब्धः । सु । पु॒रः॒ऽए॒ता । भ॒व॒ । नः॒ ।
अव॑ताम् । त्वा॒ । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । यज॑ । म॒हे । सौ॒म॒न॒साय॑ । दे॒वान् ॥

सायणभाष्यम्

हे अग्ने एहि । आगच्छ । इहास्मिन्यज्ञे होता देवानामाह्वाता सन्निषीद । उपविश । नोऽस्माकं पुरएता पुरुतो गंता सु भव । सुष्ठु भव । यस्मात्त्वमदब्धो राक्षसादिभिरहिंस्योऽसि । तादृशं त्वां विश्वमिन्वे सर्वं व्याप्नु वत्यौ रोदसी द्यावापृथिव्यौ त्वा त्वामवताम् । रक्षताम् । आगत्योपविश्य च द्यावापृथिवीभ्यां रक्षितश्च सन् महे महते सौमनसाय सौमनस्याय देवान्दानादिगुणयुक्तानिंद्रादीन्यज । हविर्भिः पूजय ॥ नि षीद । सदेरप्रतेरिति षत्वम् । सौमनसाय । सुमनसो भावः सौमनसम् । तस्येदमिति संबंधसामान्य इत्यण्प्रत्ययः । स चात्र भावलक्षणे संबंधविशेषे पर्यवस्यति । यद्वा । हायनांतयुवादिभ्योऽण् (पा ५-१-१३०) इति भावेऽण् । युवादिष्वस्य पाठो द्रष्टव्यः ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४