मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७६, ऋक् ३

संहिता

प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ ।
अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥

पदपाठः

प्र । सु । विश्वा॑न् । र॒क्षसः॑ । धक्षि॑ । अ॒ग्ने॒ । भव॑ । य॒ज्ञाना॑म् । अ॒भि॒श॒स्ति॒ऽपावा॑ ।
अथ॑ । आ । व॒ह॒ । सोम॑ऽपतिम् । हरि॑ऽभ्याम् । आ॒ति॒थ्यम् । अ॒स्मै॒ । च॒कृ॒म॒ । सु॒ऽदाव्ने॑ ॥

सायणभाष्यम्

हे अग्ने विश्वान्सर्वान्रक्षसो राक्षसान्प्र सु धक्षि । प्रकर्षेण दह । दग्ध्वाच यज्ञानामस्माभिरनुष्ठेयानां यागानामभिशस्तिपावाभिशस्तेर्हिंसायाः पाता रक्षिता भव । अथानंतरं सोमपतिं सर्वेषां सोमानां पालकमिंद्रं हरिभ्यां तदीयाश्वाभ्यामा वह अस्मद्यज्ञं प्रापय । आगतायास्मै सुदाव्ने शोभनस्य फलस्य दात्र इंद्रायातिथ्यमतिथ्यर्हं सत्कारं चकृम । कुर्मः ॥ धक्षि । दह भस्मीकरणे । बहुलं छंदसीति शपो लुक् । ढत्वभष्भावकत्वषत्वानि । अभिशस्तिपावा । शसु हिंसायाम् । अस्मादभिपूर्वाद्भावे क्तिन् । अभिशस्तेः पातीत्यभिशस्तिपावा । पा रक्षणे । आतो मनिन्निति वनिप् । सोमपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । सुदाव्ने । पूर्ववद्ददातेर्वनिप् । अल्लोपोऽन इत्याकारलोपः ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४