मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७७, ऋक् १

संहिता

क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।
यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥

पदपाठः

क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः ।
यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥

सायणभाष्यम्

कथेति पंचर्चं चतुर्थं सूक्तं त्रैष्टुभं गोतमस्यार्षमाग्नेयम् । अनुक्रांतं च । कथेति ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥

अस्मा अग्नये कथा दाशेम । कथं हवींषि ददाम । अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । अथवास्मैभामिने तेजस्विनेऽग्नये देवजुष्टा सर्वैर्देवैः सेवितव्या गीर्वाक् स्तुतिरपि का कीदृश्युच्यते । तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः । अमृतो मरणरहित ऋतावा ऋतवान् सत्यवान्यज्ञवान् वा होता देवानामाह्वाता होमनिष्पादको वा यजिष्ठोऽतिशयेन यष्वा एवंभूतो योऽग्निर्मत्येषु मरणधर्मस्वस्मासु वर्तमानः सन्देवानित्कृणोति हविर्भिर्युक्तान्करोत्येव । तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः ॥ कथा । था हेतौ च च्छंदसीति थाप्रत्ययः । भामिने । भा दीप्तौ । अर्तिस्तुस्वित्यादिना मन्प्रत्ययः । ततो मत्वर्थीय इनिः । ऋतावा । छंदसीवनिपाविति मत्वर्थीयो वनिप् । अन्येषामपि दृश्यत इति दीर्घत्वं ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५