मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७७, ऋक् २

संहिता

यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।
अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥

पदपाठः

यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊं॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।
अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥

सायणभाष्यम्

योऽग्निरध्वरेषु यागेषु शंतमोऽतिशयेनसुखकारी ऋतावा सत्यवान् । यथार्थदर्शीत्यर्थः । होता देवानामाह्वाता भवति हे ऋत्विग्यजमाना यूयं तमु तमेवाग्निं नमोभिः स्तोत्रैरा कृणुध्वम् । अभिमुखीकुरुत । यद्यदायमग्निर्मर्ताय मनुष्याय यजमानार्थं देवान्वेः वेति गच्छति तदानीं सोऽग्निर्यष्टव्यान्सर्वान्देवान्बोधाति च । जानाति च । ज्ञात्वा च मनसा नमसा तान्यजाति । हविर्भिः पूजयति । अतस्तमेवाग्निमा कृणुध्वमिति योज्यं ॥ वे । वी गत्यादिषु । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ् । तिङां तिङो भवंतीति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः । बोधाति । बुध अवगमने । लेट्याडागमः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । चवायोगे प्रथमेति निघातप्रतिषेधः । मनसा । मकारनकारयोः स्थानविपर्ययः ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५