मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७७, ऋक् ३

संहिता

स हि क्रतु॒ः स मर्य॒ः स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।
तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑ः ॥

पदपाठः

सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः ।
तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥

सायणभाष्यम्

स्य ह्यग्निः क्रतुः कर्मणां कर्ता । स एव मर्यो मारयिता विश्वस्योपसंहर्ता साधुः साधयितोत्पादयितापि स एवाद्भुतस्याभूतस्यालब्धस्य धनस्य रथी रंहयिता प्रापयिता भूत् । भवति । तत्र दृष्टांतः । मित्रो न । यथा सखा दनानि प्रापयति तद्वत् । एवंभूतो योऽग्निस्तमेव मेधेषु यज्ञेषु देवयंतीर्देवयंत्यो देवानात्मन इच्छंत्यो विशः प्रजाः प्रथममुप ब्रुवते । स्तुतिभिरुपेत्य प्रधान भूत इति कथयंति । कीदृश्यो विशः । दस्मं दर्शनीयं तमग्निमारीर्गच्छंत्यः । भजंत्य इत्यर्थः ॥ मर्यः । मृङ् प्राणत्यागे । अस्मादंतर्भावितण्यर्थाच्छंदसि निष्वर्क्येत्यादौ निपातनाद्यत् । कृत्यल्युटो बहुलमिति बहुल वचनात्कर्तरि द्रष्टव्यः । यतोऽनाव इत्याद्युदात्तत्वम् । देवयंतीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । आरीः । ऋ गतौ । जनिघसिभ्यामिण् (उ ४-१२९) इथि बहुलग्रहणादस्मादपीण्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५