मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७७, ऋक् ४

संहिता

स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।
तना॑ च॒ ये म॒घवा॑न॒ः शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥

पदपाठः

सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् ।
तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥

सायणभाष्यम्

नृणां यज्ञस्य नेतृणां मध्ये नृतमोऽतिशयेन नेता रिशादा रिशानां शत्रूणामत्ता भक्षयिता । यद्वा । रिशतां हिंसतामसिता निरसिता । एवंविधः सोऽग्नि र्नोऽस्माकं गिरः स्तुतीरवसा हविर्लक्षणेनान्नेन युक्तां धीतिं कर्म च वेतु । कामयताम् । अपि च ये यजमानास्तना । धननामैतत् । विस्तृतेन धनेन मघवानो धनवंतः शविष्ठा अतिशयेन बलिनश्च संतो वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा मन्माग्नेर्मननरूपं स्तोत्रमिषयंत एषयंति ऋत्विग्भिः कारयितुमिच्छंति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । नृ चेत्यु भयथाभावाद्दीर्घाभावः । नामन्यतरस्यामिति नाम उदात्तत्वम् । तना । तनु विस्तारे । पचाद्यच् । तृतीयैकवचनस्य सुषां सुलुगित्याकारः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधेति मत्वर्थीयो विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुगिति विनो लुक् । टेरिति टलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयंत । इषु इच्छायाम् । अस्माण्ण्यंताच्छांदसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वाण्णौ लघूपधगुणाभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५