तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
तम् । ऊं॒ इति॑ । त्वा॒ । वा॒ज॒ऽसात॑मम् । अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
हे अग्ने वाजसातमं वाजानामन्नानामतिशयेन सनितारं दातारं तमेव त्वा त्वामंगिरस्वत् । अंगिरस इव हवामहे । आह्वयामः । शिष्टं गतं ॥ वाजसातमम् । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । अतिशयेन वाजसा वाजसातमः । तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वर एव शिष्यते । अंगिरस्वत् । तेन शुल्यमिति वतः । नभोऽंगिरोमनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः ॥ ३ ॥