मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७८, ऋक् ४

संहिता

तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । वृ॒त्र॒हन्ऽत॑मम् । यः । दस्यू॑न् । अ॒व॒ऽधू॒नु॒षे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥

सायणभाष्यम्

हे अग्ने दस्यून् उपक्षपयितृन् राक्षसादीन्यस्त्वमवधूनुषे अवचालयसि स्थानत्प्रच्यावयसि वृत्रहंतमं वृत्राणां पाप्मानामतिशयेन हंतारं तमु त्वा तमेव त्वां द्युम्नैरित्यादि पूर्ववत् ॥ वृत्रहंतमम् । अतिशयेन वृत्रहा वृत्रहंतमः । पदसंज्ञायां नलोपे नाद्घस्य (पा ८-२-१७) इति तमपो नुट् । दस्यून् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्यूकारः सानुनासिकः ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६