मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् २

संहिता

आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवै॑ः कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥

पदपाठः

आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ।
शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥

सायणभाष्यम्

हे अग्ने ते तव सुपर्णाः शोभनपतना रश्मय एवृर्गंत्यभिर्मरुद्भिः सहामिनंत । आ समंतान्मेघं हिंसंति । वर्षणार्थं ताडयंति । प्रहृतश्च कृष्णः कृष्णवर्णो वृषभो वर्षिता मेघो नोनाव । भृशं शब्दमकरोत् । यदि यदेदमीदृशं कर्म तदानीं शिवाभिर्न सुखकारिणीभिः स्मयमानाभिर्हसनवतीभिः कांताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सहागात् । वैद्युताग्निप्रेरितः पर्जन्य आगच्छति । तदनंतरं मिह आपः पतंति । दिवः सकाशात्प्रवृष्टा भवंति । अभ्राभ्राण्यद्भिः पूर्णा मेघाः स्तनयंतिः । इतस्ततः शब्दं कुर्वंति ॥ अमिनंत । मीञ् हिंसायाम् । क्रैयादिकः । व्यत्ययेनांतादेशः । ईषाअक्षादित्वात्प्रकृतिभावः । अणोऽप्यगृहस्य (पा ८-४-५७) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम् । नोनाव । नौतेर्यङ् लुगंताल्लिट्यमंत्रे (पा ३-१-३५) इति निषेधादाम्प्रत्ययाभावः । स्मयमानाभिः । स्मिङ् ईषद्धसने । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । स्तनयंति । स्तन शब्दे । चुरादिरदंतः । पतंति स्तनयंतीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७