स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा ।
रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
सः । इ॒धा॒नः । वसुः॑ । क॒विः । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।
रे॒वत् । अ॒स्मभ्य॑म् । पु॒रु॒ऽअ॒नी॒क॒ । दी॒दि॒हि॒ ॥
सोऽग्निरिधानो दीपनशीलो वसुर्निवासयिता सर्वेषां कविः क्रांतदर्शनो मेधावी वा गिरा स्तोत्ररूपया वाचेळेन्यः स्तोतव्यो भवति । हे पुर्वणीक । अनीकम् । मुखम् । पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने अस्मभ्यं रेवद्धनयुक्तमन्नं यथा भवति तथा दीदिहि । दीप्यस्व ॥ इधानः । ञिइंधी दीप्तौ । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । ईळेन्यः । ईड स्तुतौ । औणादिक एन्यप्रत्ययः । रेवत् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् । का ६-१-१७६-१ । इति मतुप उदात्तत्वं ॥ दीदिहि । दीदेतिश्छांदसो दीप्तिकर्मा ॥ ५ ॥