मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ६

संहिता

क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ ।
स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥

पदपाठः

क्ष॒पः । रा॒ज॒न् । उ॒त । त्मना॑ । अग्ने॑ । वस्तोः॑ । उ॒त । उ॒षसः॑ ।
सः । ति॒ग्म॒ऽज॒म्भ॒ । र॒क्षसः॑ । द॒ह॒ । प्रति॑ ॥

सायणभाष्यम्

हे राजन् राजनशीलाग्ने क्षपः । क्षपय । राक्षसादीन् स्वकीयैः पुरुषैर्दाधस्व । उतापि च त्मना न केवलमन्यैरेवात्मना च तन्बाधस्व । कदेति चेत् उच्यते । वस्तोः सर्वाण्यहानि उतापि चोषस उषःकालोपलक्षिता रात्रीः । अत्यंत संयोगे द्वितीया । सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः । हे तिग्मजंभ तीक्ष्णमुखाग्ने रक्षसो राक्षसानुक्तप्रकारेण क्षपयित्वा स एव त्वं प्रति दह । प्रत्येकं दह । न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः ॥ क्षपः । क्षप क्षांत्याम् । लोडर्थे छांदसो लङ् । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । त्मना । मंत्रेष्वाङ्यादेरात्मन इत्याकारलोपः । रक्षसः रक्ष पालने । रक्षितव्यमस्मादिति रक्षः । भीमादित्वात् (पा ३-४-७४) अपादानेऽसिप्रत्ययः । क्षरतेर्वा ण्यंतादसिप्रत्यये णिलोपो वर्णविपर्ययश्च । अस्य च रक्षः शब्दस्यासिप्रत्ययांतत्वात्प्रत्ययस्वर एव शिष्यते ॥ ६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७