मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ८

संहिता

आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् ।
विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥

पदपाठः

आ । नः॒ । अ॒ग्ने॒ । र॒यिम् । भ॒र॒ । स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् ।
विश्वा॑सु । पृ॒त्ऽसु । दु॒स्तर॑म् ॥

सायणभाष्यम्

हे अग्ने रयिं धनं नोऽस्मभ्यमा भर । प्रयच्छ । कीदृशम् । सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकम् । वरेण्यं सर्वैर्वरणीयं विश्वासु पृत्सु सर्वेषु संग्रामेषु दुष्टरं शत्रुभिस्तरीतुमशक्यं ॥ सत्रासाहम् । छंदसि सह इतिण्विः । वरेण्यम् । वृञ एण्यः । पृत्सु । पदादिषु मांस्पृत्सून्न नामुपसंख्यानमिति पृतनाशब्दस्य पृद्भावः सावेकाच इति विभक्तेरुदात्तत्वं ॥ ८ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८