मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ९

संहिता

आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् ।
मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥

पदपाठः

आ । नः॒ । अ॒ग्ने॒ । सु॒ऽचे॒तुना॑ । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ।
मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे॑ ॥

सायणभाष्यम्

आयुष्कामेष्व्यां प्रथमस्याज्यभागस्यानुवाक्या आ नो अग्न इति । सूत्रितं च । आयुष्कामेष्ट्यां जीवातुमंतावा नो अग्ने सुचेतुना (आ २-१०) इति ॥ महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च । जीवातुमंतौ सव्योत्तर्यपस्थाः । आ । २-१९ । इति ॥

हे अग्ने नोऽस्माकं जीवसे जीवनाय सुचेतुना शोभनेन ज्ञानेन युक्तं रयिं धनमा धेहि । अस्थापय । कीदृशम् । मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपद प्रकृतिस्वरत्वं च । सकारलोपश्छांदसः । दीर्घायुत्वाय वर्चस इति यथा ॥ ९ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८