मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ११

संहिता

यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः ।
अ॒स्माक॒मिद्वृ॒धे भ॑व ॥

पदपाठः

यः । नः॒ । अ॒ग्ने॒ । अ॒भि॒ऽदास॑ति । अन्ति॑ । दू॒रे । प॒दी॒ष्ट । सः ।
अ॒स्माक॑म् । इत् । वृ॒धे । भ॒व॒ ॥

सायणभाष्यम्

हे अग्ने नोऽस्मान् अंत्यंतिके समीपे दूरे विप्रकृष्वदेशेऽवस्थितः सन् यः शत्रुरभिदासति उपक्षपयति स शत्रुः पदीष्व । पततु । नश्यतु । त्वं चास्माकमित् अस्माकमेव वृधे वर्धनाय भव ॥ अभिदासति । दसु उपक्षये । अस्माण्यंताल्लट च्छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । अंति । कादिलोपो बहुलमिति वक्तव्यमित्यंतिकशब्दस्य ककारलोपः । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ११ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८