मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् १२

संहिता

स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।
होता॑ गृणीत उ॒क्थ्य॑ः ॥

पदपाठः

स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ ।
होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

सहस्राक्षोऽसंख्यातज्वालो विचर्षणिर्विशेषेण सर्वस्य द्रष्टायमग्नी रक्षांसि सेधति । प्रतिषेधति । यज्ञान्निर्गमयति । स चाग्निरुक्थ्य उक्थ्यः शस्त्रैरस्माभिः स्तूयमानः सन् होता देवानामाह्वाता भूत्वा गृणीते । तान्स्तौति ॥ सहस्राक्षः । बहुव्रीहौ सक्थ्यक्ष्णोरिति षच् समासांतः । सति शिष्वत्वात्तस्यैव स्वरः शिष्यते । सेधति । षिधु गत्यां अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । गृणीते । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वं ॥ १२ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८