मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १

संहिता

इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् ।
शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

इ॒त्था । हि । सोमे॑ । इत् । मदे॑ । ब्र॒ह्मा । च॒कार॑ । वर्ध॑नम् ।
शवि॑ष्ठ । व॒ज्रि॒न् । ओज॑सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि॑म् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे शविष्ठातिशयेन बलवन् वज्रिन्वज्रवन्शिंद्र इत्था हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव मदे मदकरे हर्षकरे सोमे त्वया पीते सति ब्रह्मा ब्राह्मणः स्तोता वर्धनं तव वृद्धिकरं स्तोत्रं चकार । अनेन सूक्तेन कृतवान् । इदित्येतत्पादपूरणं अतस्त्वमोजसा बलेन पृथिव्याः सकाशादहिमागत्य हंतारं वृत्रं निः शशाः । निःशेषेणाशाः । मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशान्निरगमय इत्यर्थः । किंकुर्वन् । स्वराज्यं स्वस्य राज्यं राजत्वमन्वनुलक्ष्यार्चन् पूजयन् । स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः ॥ शशाः । शासु अनुशिष्टौ । लङि लुकि प्राप्ते बहुलं छंदसीति शपः श्लुः । स्वराज्यं राज्ञो भावः कर्म वा राज्यम् । पत्यंतपुरोहितादिभ्यो यक् (पा ५-१-१२८) इति यक् । तत्र हि राजास इति पठ्यते । स्वस्य राज्यं स्वराज्यम् । अकर्मधारये राज्यम् (पा ६-२-१३०) इत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९