मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् २

संहिता

स त्वा॑मद॒द्वृषा॒ मद॒ः सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।
येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

सः । त्वा॒ । अ॒म॒द॒त् । वृषा॑ । मदः॑ । सोमः॑ । श्ये॒नऽआ॑भृतः । सु॒तः ।
येन॑ । वृ॒त्रम् । निः । अ॒त्ऽभ्यः । ज॒घन्थ॑ । व॒ज्रि॒न् । ओज॑सा । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे इंद्र त्वा ! त्वां स सोमोऽमदत् । आमदयत् । हर्षं प्रापयश् । कीदृशः सोमः । वृषा सेचनस्वभावो मदो मदकरो हर्षकारी श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः सुतोऽभिषुतः । हे वज्रिन् वज्रवन्निंद्र येन पीतेन सोमेनौजसा बलकरेणाद्भ्योऽंतरिक्षसकाशाद्वृत्रं निर्जघंथ हतवानसि । अन्यत्पूर्ववत् ॥ अमदत् । मदी हर्षे । अस्माण्णिचि मदी हर्षग्लपनयोरिति घटादिषुपाठात् मित्वे सति मितां ह्रस्व इति ह्रस्वत्वम् । लङि छंदस्यु भयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । अद्भ्यः । आप इत्यंतरिक्षनाम । अपो भि (पा ७-४-४८) इति पकारस्य तत्वम् । जघंथ । क्रादिनियमप्राप्तस्येट उपदेशेऽत्वत इति प्रतिषेधः । अभ्यासाच्चेति हकारस्य घत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९