मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ३

संहिता

प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते ।
इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः॑ । नि । यं॒स॒ते॒ ।
इन्द्र॑ । नृ॒म्णम् । हि । ते॒ । शवः॑ । हनः॑ । वृ॒त्रम् । जयाः॑ । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे इंद्र प्रेहि । प्रकर्षेण गच्छ । अभीहि । हंतव्यान् शत्रूनाभिमुख्येन प्राप्नुहि । प्राप्य च धृष्णु हि । तान् शत्रूनभिभव । ते तव वज्रो न नि यंसते । शत्रुभिर्न नियम्यते । अप्रतिहतगतिरित्यर्थः । तथा ते शवस्त्वदीयं बलं नृम्णं पुरुषाणां नामकमभिभावकं हि यस्मादेवं तस्माद्वृत्रमसुरं मेघं वा हनः । जहि । ततोऽनंतरं तेन निरुद्धा अप उदकानि जयाः । वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः । अन्यत्समानं ॥ यंसते । यमेः कर्मणि लेट सिब्बहुलमिति सिप् । लेटोऽडाटावित्यडागमः । हनः । लोडर्थे छांदसो लङ् । बहुलं छंदसीति शपो लुगभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः । जयाः । जयतेर्लेट्याडागमः । पूर्ववत्स्वरः ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९