मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ४

संहिता

निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः ।
सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः ।
सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे इंद्र भूम्या अधि भूलोकस्योपरि वृत्रं निर्जघंथ । निःशेषेण हतवानसि । तथा दिवो द्युलोकान्निर्जघंथ । हत्वा चेमा अपो वृष्ट्युदकान्यव सृज । अधः पातय । कीदृशीरपः । मरुत्वतीर्मरुद्भिः संयुक्ता जीवधन्या जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः । अन्यत्समानं ॥ ४ ॥ट

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९