मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ५

संहिता

इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒ः सानुं॒ वज्रे॑ण हीळि॒तः ।
अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

इन्द्रः॑ । वृ॒त्रस्य॑ । दोध॑तः । सानु॑म् । वज्रे॑ण । ही॒ळि॒तः ।
अ॒भि॒ऽक्रम्य॑ । अव॑ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा॑य । चो॒दय॑न् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हीळितः क्रुद्ध इंद्रोऽभिक्रम्याभिमुख्येन गत्वा दोधतो भृशं कंपमानस्य वृत्रस्य सानुं समुच्छ्रितं हनुप्रदेशं वज्रेणाव जिघ्नते । प्रहरति । किं कुर्वन् । अपो वृष्ट्युदकानि सर्माय सरणाय निर्गमनाय चोदयन् प्रेरयन् ॥ दोधतः । धूञ् कंपने अस्माद्यङ् लुगंताच्छतर्यंत्यलोपश्छांदसः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । हीळितः । हेडृ होडृ अनादरे । हेळत इत्येतत् क्रुध्यति कर्मसु पठितम् । अस्मान्निष्ठायां वर्णव्यापत्त्येकारः । जिघ्नते । हंतेर्लट व्यत्ययेनात्मनेपदं बहुवचनं च बहुलं छंदसीति शपः श्लुः । इदित्यनुवृत्तौ बहुलं छदसीत्यभ्यासस्येत्वम् । गमहनेत्यादिनोपधालोपः । सर्माय । सृ गतौ । अर्तिस्तुस्वित्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९