मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १०

संहिता

इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सहः॑ ।
म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

इन्द्रः॑ । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒ह॒न् । सह॑सा । सहः॑ ।
म॒हत् । तत् । अ॒स्य॒ । पौंस्य॑म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

इंद्रो वृत्रस्यासुरस्य तविषीं बलं स्वकीयेन बलेन निरहन् । हतवान् । सहसा सहनेनाभिभवसाधनेनायुधेन सहोऽभिभवसाधनं वृत्रायुधं निरहन् । अस्येंद्रस्य तत्पौंस्यं बलं महत् अतिप्रौढम् । यस्मादयं वृत्रं जघन्वान्हतवान् हत्वा च तन्निरुद्धा अपोऽसृजत् तस्माद्वृत्रान्निरगमयत् । अन्यत्पूर्ववत् ॥ पौंस्यम् । पुंस अभिवर्धने । चुरादिः । अचो यदिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जघन्वान् । हंतेर्लिटः क्वसुः । विभाषा गमहनविदेतीटो विकल्पादभावः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हंतेर्हकारस्य घत्वं ॥ १० ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०