मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १३

संहिता

यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।
अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः ।
अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे इंद्र यद्यदा वृत्रं तव हननार्थं तेन सृष्टामशनिं च त्वं वज्रेण समयोधयः सम्यक् प्राहार्षीः तदानीमहिमागत्य हंतारं वृत्रं जिघांसतो हंतुमिच्छतस्ते तव शवो बलं दिवि बद्बधे । बद्धमनुस्यूतं व्याप्तमासीत् । शिष्टं पूर्ववत् ॥ जिघांसतः । हंतेरिच्छार्थे सन्यज्झनगमां सनि (पा ६-४-१६) इत्युपधादीर्घत्वम् । बद्बधे । बध बंधने । कर्मणि लिट व्यत्ययेन हलादिशेषाभावः ॥ १३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१