मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १५

संहिता

न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः ।
तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः ।
तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

यात् यांतं सर्वत्र व्याप्य वर्तमानमिंद्रं नहि न्वधीमसि । वयं न ह्यवगच्छामः । यतो वयमल्पाः । पर इत्येतत्सकारांतमव्ययं वैदूर्यमाचष्टे । परो दिवा पर एना । ऋग्वे १०-८२-५ । इति यथा । परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने वीर्या वीर्येण सामर्थ्येन वर्तमानमिंद्रं को मनुष्यो जानीयात् । न कोऽपीत्यर्थः । कस्मादिति चेत् अत्राह । तस्मिन्निति । यस्मात्तस्मिन्निंद्रे देवा नृम्णं धनं उतापि च क्रतुं वीर्यकर्मौजांसि बलानि च सं दधुः स्थापयां चक्रुः । तस्मादित्यर्थः ॥ यात् । या प्रापणे । अस्माल्लटः शतृ । सुपां सुलुगिति द्वितीयाया लुक् । अधीमसि । इण् गतौ । इदंतो मसिः । वीर्या । सुपां सुलुगिति तृतीयाया आकारः ॥ १५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१