मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १६

संहिता

यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त ।
तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

याम् । अथ॑र्वा । मनुः॑ । पि॒ता । द॒ध्यङ् । धिय॑म् । अत्न॑त ।
तस्मि॑न् । ब्रह्मा॑णि । पू॒र्वऽथा॑ । इन्द्रे॑ । उ॒क्था । सम् । अ॒ग्म॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

अथर्वैतत्संज्ञ क ऋषिः पिता सर्वासां प्रजानां पितृभूतो मनुश्च दध्यङ् अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च यां धियमत्नत यत्कर्मातन्वत अकुर्वन् तस्मिन्कर्मणि यानि ब्रह्माणि हविर्लक्षणान्यन्नान्युक्था शस्त्ररूपाणि स्तोत्राणि च यानि संतितानि सर्वाणि तस्मिन्निंद्रे समग्मत । समगच्छंत । तत्र दृष्टांतः । पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा षवींषि स्तोत्राणि चेंद्रेण संगच्छंते तद्वत् । य इंद्रः स्वराज्यं स्वस्य राज्यत्वमन्वर्चन् अनुपूजयन् । वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयन्नित्यर्थः ॥ अश्नत । तनु विस्तारे । बहुलं छंदसीति विकरणस्य लुक् । तनिपत्योश्छंदसीत्युपधालोपः । पूर्वथा । प्रत्नपूर्वविश्वेमात्थाल् छंदसि (पा ५-३-१११) इतीवार्थे पूर्वशब्दात्थाल्प्रत्ययः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । उक्था । शेश्छंदसि बहुलमिति शेर्लोपः । समग्मत । समो गम्यृच्छिभ्यामित्यात्मनेपदम् । लुङि मंत्रे घसेति च्लेर्ल्लुक् । गमहनेत्यादिनोपधाया लोपः ॥ १६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१