मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् १

संहिता

इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभि॑ः ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥

पदपाठः

इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ ।
तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥

सायणभाष्यम्

प्रथमे मंडले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि । इंद्रो मदायेति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते । इंद्रो नवेति । ऋषिश्चान्यस्मादृषेः (अनु । १२-२) इति परिभाषया रहूगणपुत्रस्य गोतमस्यानुवृत्तेरस्य सूक्तस्य स ऋषिः । पूर्वसूक्ते पांक्तं हीत्युक्तत्वात्तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पांक्तम् । अनादेशपरिभाषयेंद्रो देवता ॥ पृष्ठ्यस्य पंचमेऽहनि निष्केवल्यशस्त्र इदं सूक्तम् । सूत्रितं च । प्रेदं ब्रह्मेंद्रो मदाय सत्रा मदास इति निष्केवल्यम् (आ ७-१२) इति ॥ आरंभणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्र इंद्रो मदायेत्याद्यस्तृचो वैकल्पिकः स्तोत्रियः । होत्रकाणामिति खंडे सूत्रितम् । इंद्रो मदाय वावृधे मदे मदे हि नो ददिः (आ ७-४) इति ॥ महाव्रते निष्केवल्य उत्तरपक्ष इंद्रो मदायेत्येका शंसनीया । तथैव पंचमारण्यके सूत्रितम् । इंद्रो मदाय वावृध इति पंक्तिः सूददोहाः । ऐ आ ५-२-२ । इति ॥

वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हंता । यद्वा । अवरकाणां शत्रूणां हंतेंद्रो मदाय हर्षार्थं शवसे । बलनामैतत् । बलार्थं च नृभिर्यज्ञस्य नेतृभिर्ऋत्विग्भिर्ववृधे । स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते । तमित्तमेवेंद्रं महत्सु प्रभूतेष्वाजिषु संग्रामेषु हवामहे । अस्माकं रक्षणायाह्वयामहे । उतापि चेमेनमर्भेऽल्पे संग्रामे हवामहे । अस्माभिराहूतः स चेंद्रो वाजेषु संग्रामेषु नोऽस्मान् प्राविषत् । प्रावतु । प्रकर्षेण रक्षतु ॥ ववृधे । वृधेः कर्मणि लिट् । संहितायामभ्यासस्यान्येषामपि दृश्यत इति दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत्पदकाले दीर्घः श्रूयेत । नृभिः । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्यामिति प्रतिषेधः । हवामहे । ह्वयतेर्लट ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । शपि गुणावादेशौ । अविषत् । अव रक्षणे । लेट्यडागमः । इतश्च लोप इतीकारलोपः । सिब्बहुलं लेटेति सिप् । तस्यार्धधातुकत्वाद्वलादिलक्षण िइट् ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः