मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् २

संहिता

असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥

पदपाठः

असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः ।
असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥

सायणभाष्यम्

हे वीर शत्रुक्षेपणकुशलेंद्र त्वं सेन्योऽसि । सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । हि यस्मादेवं तस्माद्भूरि प्रभूतं शत्रूणां धनं पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदातासि । भवसि । दभ्रस्य चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुर्वृधो वर्धयितासि । तथा यजमानाय यागं कुर्वते सुन्वते सोमाभिषवं कुर्वते पुरुषाय शिक्षसि । अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात्ते तव वसु धनं भूरि बहुलमक्षयं धनं विध्यते । तस्माद्ददासीति भावः ॥ पराददिः । डुदाञ् दाने । आदृगमहनजन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचने ह्रस्वत्वम् । आतो लोप इटि चेत्याकारलोपः । वृधः । वृधेरंतर्भावितण्यर्थादिगुपधलक्षणः कः । सुन्वते । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः