मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् ३

संहिता

यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।
यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒ः कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥

पदपाठः

यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ ।
यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अ॒स्मान् । इ॒न्द्र॒ । वसौ॑ । द॒धः॒ ॥

सायणभाष्यम्

अत्रेदमाख्यानम् । रहूगणपुत्रो गोतमः कुरुसृंजयानां राज्ञां पुरोहित आसीत् । तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेंद्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति । तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् । गोतमो हि वै राहूगण उभयेषां कुरुसृंजयानां पुरोहित आसीदिति ॥ यद्यदाजयः संग्रामा उदीरते उद्गच्छंति उत्पद्यंते तदानीं धना धनं धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै धीयते । निधीयते । जयतो धनं भवतीत्यर्थः । हे इंद्र त्वं तादृशेषु युद्धेषु प्रवृत्तेषु मदच्युता शत्रूणां मदस्य गर्वस्य च्यौवयितारौ हरी त्वदीयावश्वौ युक्ष्व । रथे योजय । योजयित्वा च कं कंचिद्राजानं तव परिचरणमकुर्वंतं हनः । हन्याः । कंचन त्वां परिचरंतं वसौ वसुनि धने दधः । स्थापयसि । अतो जयपराजययोस्त्यमेव कारयितासि । तस्मात् हे इंद्रास्मानस्मदीयान्राज्ञो वसौ धने दधः । स्थापय ॥ उदीरते । ईर गतौ । आदादिकः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यद्वृत्तयोगादनिघातः । धना । सुपां सलुगिति डादेशः । युक्ष्य । युजिर् योगे । अंतर्भावितण्यर्थाल्लोट बहुलं छंदसीति विकरणस्य लुक् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । हनः । हंतेर्लेट सिप्यडागमः । हनश्च दधश्चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । वसौ । लिंगव्यत्ययः । दधः । दध धारणे लेट । व्यत्ययेन परस्मैपदं ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः